||Sundarakanda ||

|| Sarga 4||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||
सुन्दरकाण्ड्.
अथ चतुर्थः सर्गः

Sundarakanda
Sarga 4

श्लो॥ स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणी।
विक्रमेण महातेजा हनुमान् कपिसत्तमः॥1||
अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ।

स॥ कपिसत्तमः महाबाहुः हनुमान् तां लङ्कां कामरूपिणीं विक्रमेण निर्जित्य सः अद्वारेण श्रेष्ठां पुरीं प्राकारमभिपुप्लुवे ॥

The mighty Hanuman with his prowess having overcome the demoness Lanka who can assume any form leapt over the rear entrance of the great city Lanka.

श्लो॥ प्रविश्य नगरीं लङ्कां कपिराजहितंकरः॥2||
चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्थनि।

स॥ कपिराजहितं करः नगरीं लंकां प्रविश्य सः शत्रूणां मूर्धनि सव्यं पादं चक्रे तु॥

The well-wisher of the king of Vanaras having entered Lanka placed his left foot first in the city as though placing his foot on the head of the enemy foretelling their defeat.

श्लो॥ प्रविष्ठ सत्व संपन्नो निशायां मारुतात्मजः॥3||
स महापथमास्थाय मुक्तपुष्प विराजितम्।
ततस्तु तां पुरीं लङ्कां रम्यां अभिययौ कपिः॥4||

स॥ सत्त्वसंपन्नः सः मारुतात्मजः निशायाम् मुक्तापुष्पविराजितं महापथम् आस्थाय प्रविष्ठः॥ ततः तां रम्यां नगरीं लङ्कां अभिययौ॥

The son of wind god endowed with great strength having made his way entered the main streets of Lanka set with flowers of pearls. Then he went about that beautiful city in search of Sita.

श्लो॥ हसितोत्कृष्णनिनदै स्तूर्यघोषपुरस्सरैः।
वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः॥5||
गृहमेघैः पुरी रम्या बभासे द्यौ रिवांबुधैः।

स॥ हसितोत्कृष्ट निनदैः तूर्यघोषपुरः सरैः वज्रांकुशनिकाशैश्च वज्रजाल विभूषितैः मेघाइव गृहैः रम्या पुरी अम्बुदैः द्यौः इव बभासे॥

Filled with sounds of laughter, reverberating with sounds of musical instruments, with houses as though they were in clouds and decorated with windows adorned with diamonds the city resembled the celestial sky shining with clouds.

श्लो॥ प्रजज्वाल तदा लंका रक्षोगणगृहै श्शुभैः॥6||
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः।
वर्थमान गृहैश्चापि सर्वत स्सुविभूषिता॥7||

स॥ ततः सिताभ्रसदृशैः शुभैः चित्रैः पद्मस्वस्थिक संस्थितैः राक्षस गण गृहैः वर्धमान गृहैश्चापि सर्वतः सुविभूषिता॥

Resembling the white clouds , with auspicious marks of swastika as well as paintings, the well decorated houses of the Rakshasas all over the city of Lanka were glittering. The houses are with no doors in the southern direction ( to ensure continued prosperity).

श्लो॥ तां चित्रमाल्याभरणां कपिराजहितंकरः।
राघवार्थं चरन् श्रीमान् ददर्शच ननंद च ॥8||

स॥ कपिराजहितं करः श्रीमान् चित्रमाल्याभरणाम् तां (पुरीम्) राघवार्थम् चरन् ददर्शच ननंद च॥

For achieving Raghav's purpose, the well-wisher of the chief of Vanaras going about that city of colorful garlands saw that city and felt happy.

श्लो॥ भवनाद्भवनं गच्छन् ददर्श पवनात्मजः।
विविधाकृतिरूपाणि भवनानि ततस्ततः॥9||

स॥ भवनात् भवनं गच्छन् पवनात्मजः ततः ततः विविधाकृति रूपाणि भवनानि ददर्श॥

Going from one building to another, the son of wind god saw mansions of different shapes and sizes.

श्लो॥ शुश्राव मथुरं गीतं त्रिस्थानस्वरभूषितम् ।
स्त्रीणां मदसमृद्धानां दिविचाप्सरसामिव ॥10||

स॥ (सः) दिवि अप्सरसामिव मदसमृद्धानाम् स्त्रीणाम् त्रिस्थान स्वरभूषितां मधुरं गीतम् शुश्राव॥

He heard melodious songs of intoxicated women with tunes set to three pitches (namely medium high and low) singing like the Apsarasas in the heaven.

श्लो॥ शुश्राव काञ्ची निनदं नूपुराणां च निस्स्वनम्।
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥11||
अस्फोटितनिनादांश्च क्ष्वेळितांश्च ततस्ततः।

स॥ (सः) महात्मनाम् भवनेषु कांचीनिनदम् नूपुराणां निस्स्वनम् सोपाननिनदांश्चैव अस्फोटितनिनादांश्च ततः ततः क्ष्वेळितांश्च शुश्राव॥

He heard from the palaces of great people the sounds of bells worn on the waists, sounds of anklets (worn on the ankles), sounds of climbing steps and sounds of clapping and joking here and there.

श्लो॥ शुश्राव जपतां तत्र मंत्रान् रक्षोगृहेषुवै॥12||
स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः।
रावण स्तवसंयुक्तान् गर्जतो राक्षसानपि॥13||

स॥ (सः) तत्र रक्षोगृहेषु जपतां मंत्रान् शुश्राव ॥स्वाध्यायनिरतां यातुधानान् च रावणस्तव संयुक्तान् गर्जतः राक्षसान् अपि ददर्श ॥

He heard the sacred chanting from the houses of Rakshasas. He saw Rakshasas engaged in the study of Vedas, as well as those engaged in the loud eulogy of Ravana.

श्लो॥ राजमार्गं समावृत्य स्थितं रक्षो बलं महत्।
ददर्श मध्यमे गुल्मे रावणस्य चरान्बहून्॥14||

स॥ (सः) मध्यमे गुल्मे राजमार्गं समावृत्य स्थितं महत् रक्षोबलं रावणस्य बहून् चरान् ददर्श॥

He saw army of Rakshasas and Ravana's spies gathered on the main streets in the center of the city.

श्लो॥ दीक्षितान् जटिलान् मुण्डान् गोऽजिनांबरवाससः।
दर्भमुष्टिप्रहरणान् अग्निकुण्डायुधान् स्तथा॥15||

स॥ (सः) दीक्षितान् जटिलान् मुण्डान् गोजीनाम्बरवाससः दर्भमुष्टिप्रहारणान् तथा अग्निकुण्डायुधान् तथा ( ददर्श)॥

He saw householders, forest dwellers , mendicants wearing hide of cows, holding Dharbha grass , and tools for fire sacrifices.

श्लो॥ कूटमुद्गरपाणींश्च दण्डायुधधरानपि।
एकाक्षान् एककर्णांश्च लंबोदरपयोधरान्॥16||

स॥ (सः) कूटमुद्गरपाणीं च दण्डायुधधरान् (राक्षसान्) अपि , एकाक्षान् एक कर्णां च लंबोधरान् पयोधरान् (ददर्श)॥

He saw Rakshasas holding iron mallets and hammers, holding staffs and arms. He saw Rakshasas with one eye , with one ear , with huge stomachs, with heavy breasts.

श्लो॥ कराळान् भुग्नवक्त्रांच विकटान् वामनांस्तथा।
धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्॥17||

स॥ (सः) कराळान् भुघ्नवक्त्रां च विकटान् तथा वामनान् च धन्विनः खड्गिनः च शतघ्नी मुसलायुधान् च (ददर्श)

He saw Rakshasa with frightful faces , dwarfs as also those with distorted forms. He saw those armed with swords, bows as well as iron clubs or pestles.

श्लो॥ परिघोत्तमहस्तांश्च विचित्र कवलोज्ज्वलान्।
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्॥18||

स॥ (सः) परिघोत्तमहस्तां च विचित्रकवलोज्ज्वलान् न अतिस्थूलान् न अतिकृशान् न अतिदीर्घा न अतिह्रस्वकान् (ददर्श)॥

He saw Rakshasas with hands which are like iron bolts holding wonderful shields, not too fat , not too thin, not too tall or short.

श्लो॥ नातिगौरान् नातिकृष्णान् नातिकुब्जान्न वामनान्।
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः॥19||
ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्

स॥ (सः) न अतिगौरान् न अति कृष्णान् न अतिकुब्जान् न वामनान् बहुरूपां च सुरूपां च सुवर्चसः ध्वजीन् पताकिनश्च विविधायुधान् ददर्श॥

He saw Rakshasas not vary fair, not very dark, neither too short nor too hideous , good looking , holding flagstaffs with flags and variety of arms.

श्लो॥ शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः॥20||
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः।
स्रग्विणस्त्वनुलिप्तांश्च वराभरण भूषितान्॥21||

स॥ सः महाकपिः शक्तिवृक्षायुधाश्चैव पट्टिसाशनिधारिणः क्षेपणी हस्तांच स्रग्विणस्त्वनुलिप्तांच वराभरण भूषितान् ददर्श॥

That great Vanara Rakshasas saw those who were holding powerful trees as weapons, Rakshasas who were holding spears and arrows, Rakshasas who were holding slings from which missiles are thrown. He saw Rakshasas wearing garlands, smeared with unguents, adorned with excellent ornaments.

श्लो॥ नानावेष समायुक्तान् यथा स्वैरगतान् बहून् ।
तीक्ष्णशूलधरांश्चैव वज्रिणस्य महाबलान्॥22||

स॥ (सः) नानावेषसमायुक्तान् स्वैरगतान् यथा बहून् तीक्ष्णशूलधरां च वज्रिणस्य महाबलान् (ददर्श)॥

He saw many Rakshasas dressed in variety of colorful dresses and moving about freely. He saw many very powerful Rakshasas holding tridents and armed with thunderbolt like weapons.

श्लो॥ शतसाहस्र मव्यग्र मारक्षं मध्यमं कपिः।
रक्षोधिपतिनिर्धिष्ठं ददर्शांतःपुराग्रतः ॥23||

स॥ कपिः अन्तःपुर अग्रतः रक्षोधिपतिनिर्दिष्टं शतसाहस्रं अव्यग्रं मध्यमं आरक्षं ददर्श॥

The Vanara saw hundred thousand vigilant army soldiers stationed in front of the harem.

श्लो॥ स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्।
राक्षसेंद्रस्य विख्यातमद्रि मूर्ध्नि प्रतिष्टितम्॥24||
पुंडरीकावतंसाभिः परिघाभिरलंकृतम्।
प्राकारावृत मत्यंतं ददर्श स महाकपिः॥25||

स॥ सः महाकपिःमहाहाटकतोरणं अद्रिमूर्ध्नि प्रतिष्टितं विख्यातं पुण्डरीकावतंसाभिः परिखाभिः अलंकृताम् प्राकारावृतां राक्षसेंद्रस्य तत् गृहम् तदा दृष्ट्वा अत्यन्तं ददर्श॥

The great Vanara saw the palace of the renowned Rakshasa king on the peak of the mountain as if touching the sky with a huge archway made of gold, and surrounded by a well decorated compound wall having moats with white lotuses appearing like ear ornaments, .

श्लो॥ त्रिविष्ठपनिभं दिव्यं दिव्यनाद विविनादितम्।
वाजिहेषितसंघुष्टं नादितंभूषणैस्तथा॥26||
रथैर्यानैर्विमानैश्च तथा हयगजै श्शुभैः।
वारणैश्च चतुर्दंतै श्श्वेताभ्रनिचयोपमैः ॥27||
भूषितं रुचिर द्वारं मत्तैश्च मृगपक्षिभिः।
रक्षितं सुमहावीर्यै र्यातुधानै स्सहस्रशः॥
राक्षसाधिपतेर्गुप्त माविवेश महाकपिः॥28||

स॥ महाकपिः दिव्यं त्रिविष्टपनिभं वाजिहेष्टितसंघुष्टम् तथा भूषणैः नादितं रथैः यानैः विमानैश्च शुभैः हयगजैः श्वेताभ्रनिचयोपमैः चतुर्थन्तैः वारणैश्च भूषितं मत्तैः मृगपक्षिभिः रुचिरद्वारम् सुमहावीर्यैः सहस्रशः यातुधानैः राक्षसाधिपतेः गुप्तं आविवेश॥

That great Vanara entered the Rakshasa king's mansion which is wonderful resembling the heaven. It was filled with sounds of neighing horses with jingling ornaments, with chariots, carriages, flying chariots. It is filled with auspicious elephants and horses appearing like heap of white clouds, four tusked ornamented intoxicated elephants, with beasts and birds. It is with a beautiful entrance guarded by thousands of Rakshasas of great valor.

श्लो॥ सहेमजांबूनदचक्रवाळम्
महार्हमुक्तामणिभूषितांतम्।
परार्थ्यकालागरुचंदनाक्तम्
स रावणांतःपुरम् आविवेश॥29||

स॥सः सहेम जाम्बूनद चक्रवाळम् महार्हमणिभूषितांतम् परार्थ्यकालागरुचन्दनाक्तम् रावणांतः पुरं आविवेश॥

Then he entered the harem of the Rakshasa king with walls of polished gold decorated with strings of pearls and sprinkled with best fragrance of sandal.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे चतुर्थस्सर्गः॥

Thus ends the third Sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

|| om tat sat||